अभोजन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभोजनम्, क्ली, (भुज् + भावे ल्युट्, नञ्समासः ।) भोजनाभावः । उपवासः । यथा, -- “अजीर्णे भोजनं येषां जीर्णे येषामभोजनं । रात्रावभोजनं येषां तेषां नश्यन्ति धातवः” ॥ इति वैद्यकं ॥ (अनशनं । “वेदोदितानां नित्यानां कर्म्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनं” ॥ इति मलमासतत्त्वं ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभोजन¦ न॰ अभावे न॰ त॰। भोजनाभावे उपवामे
“स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्”
“यतात्मनोऽप्र-मत्तस्य द्वादशाहमभोजनम्” इति च मनुः। भोजनाभावश्चभोजनविषयकनिवृत्तिरिति मीमांसकाः भोजनात्यन्ताभावइति नैयायिकाः अत्यन्ताभवस्य क्षैमिकजन्यत्वाङ्गी-काराच्च कृतिसाध्यत्वमिति विवेकः। भोजनाभावश्च भोजनेक्वचिद्रागाभावेन रोगेण वा, क्वचिच्च शास्त्रादितो भोजनेबलवदनिष्टसाधनत्वज्ञानेन विरोधात् इष्टसाधनताज्ञानानुद-येन, यथा न कलञ्जं भक्षयेदित्यादौ। क्वचिच्च व्रतरूपेभोजनाभावे इष्टसाधनताज्ञानेन। स च भोजननिवृत्ति-स्तदन्त्याभावो वेत्युक्तम्। विस्तरस्तु निषेधनिषेधविधि-शब्दयोर्दृश्यः।
“अजीर्ण्णे भोजनं येषां जीर्ण्णे येषामभो-जनम् रात्रावभोजनं येषां तेषां नश्यन्ति धातव” इतिवैद्य॰। न॰ ब॰।
२ भोजनशून्ये त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभोजन¦ n. (-नं) Abstinence, fasting. E. अ neg. भोजन food.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभोजनम् [abhōjanam], Not eating, fasting, abstinence; त्रिरात्रं स्यादभोजनम् Ms.11.166.23.215.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभोजन/ अ-भोजन n. not eating , fasting Ka1tyS3r. Mn. etc.
अभोजन/ अ-भोजन n. pl. id. Katha1s.