अभ्यागतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्यागतः, पुं, (अभि + आ + गम् + कर्त्तरि क्तः ।) अतिथिः । इति हेमचन्द्रः ॥ “स च ज्ञातपूर्ब्ब- गृहागतः” इति श्रीधरस्वामी ॥ “बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्व्वत्राभ्यागतो गुरुः” ॥ इति हितोपदेशे ।)
