अभ्युत्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्थानम्, क्ली, (अभि + उत् + स्था + भावे ल्युट् ।) गौरवं । इति हेमचन्द्रः ॥ आसनादेरुत्थानं । यथा, -- “यदा यदा च धर्म्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्म्मस्य तदात्मानं सृजाम्यहं” ॥ इति श्रीभगवद्गीता ॥ (ख्यातिः । कीर्त्तिः । यशः । गौरवेणोत्थानादिना प्रत्थुद्गमनं । “अलमलम- भ्युत्थानेन, ननु सर्व्वस्याभ्यागतोगुरुरिति भवाने- वास्माकं पूज्यः” । इति नागानन्दः । “नाभ्युत्थानं क्रिया यत्र नालापा मधराक्षराः । गुणदोषकथा नैव तस्य हर्म्ये न गम्यते” ॥ इति पञ्चतन्त्रे । अभ्युदयः । अभ्युन्नतिः । “नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः” ॥ इति रघुवंशे । सूर्य्योदयः । उदयः । उद्भवः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्थान नपुं।

उत्थानपूर्वकसत्कारः

समानार्थक:अभ्युत्थान,गौरव

2।7।34।2।3

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्थान¦ न॰ अभि + उत्--स्था--ल्युट्।

१ आदरेणासनादितउत्थाने

२ गौरवेणोत्थानादिना

३ प्रत्युद्गमने,

४ उत्थानमात्रे,

५ उद्यमे,

६ उद्भवे च।
“नवाभ्युत्थानदर्शिन्योननन्दुःसप्रजाः प्रजाः” रघुः
“अभ्युत्थानमधर्म्मस्य तदात्मानं सृजा-म्यहम्” गीता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्थानम् [abhyutthānam], 1 Rising (from a seat) to do honour, rising in honour of; नाभ्युत्थानक्रिया यत्र Pt.2.62.

Starting, departure, setting out; arrangements for starting; अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ Rām.6.92.62.

Rise (lit. and fig.), elevation, exaltation, prosperity, dignity, a position of dignity or authority; (तस्य) नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः R.4.3; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थान- मधर्मस्य तदात्मानं सृजाम्यहम् Bg.4.7 when impiety increases or is in the ascendant.

Sunrise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युत्थान/ अभ्य्-उत्थान n. rising from a seat through politeness Pan5cat.

अभ्युत्थान/ अभ्य्-उत्थान n. rising , setting out R.

अभ्युत्थान/ अभ्य्-उत्थान n. rebellion Hariv.

अभ्युत्थान/ अभ्य्-उत्थान n. elevation , gaining a high position , gaining authority , respectability Bhag. Ragh.

अभ्युत्थान/ अभ्य्-उत्थान n. (said of destiny) gaining efficacy , power MBh. xiii , 343

अभ्युत्थान/ अभ्य्-उत्थान n. rise , origin , birth MBh. xii.

"https://sa.wiktionary.org/w/index.php?title=अभ्युत्थान&oldid=487924" इत्यस्माद् प्रतिप्राप्तम्