अभ्युत्थानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्युत्थानम्, क्ली, (अभि + उत् + स्था + भावे ल्युट् ।) गौरवं । इति हेमचन्द्रः ॥ आसनादेरुत्थानं । यथा, -- “यदा यदा च धर्म्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्म्मस्य तदात्मानं सृजाम्यहं” ॥ इति श्रीभगवद्गीता ॥ (ख्यातिः । कीर्त्तिः । यशः । गौरवेणोत्थानादिना प्रत्थुद्गमनं । “अलमलम- भ्युत्थानेन, ननु सर्व्वस्याभ्यागतोगुरुरिति भवाने- वास्माकं पूज्यः” । इति नागानन्दः । “नाभ्युत्थानं क्रिया यत्र नालापा मधराक्षराः । गुणदोषकथा नैव तस्य हर्म्ये न गम्यते” ॥ इति पञ्चतन्त्रे । अभ्युदयः । अभ्युन्नतिः । “नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः” ॥ इति रघुवंशे । सूर्य्योदयः । उदयः । उद्भवः ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्युत्थानम् [abhyutthānam], 1 Rising (from a seat) to do honour, rising in honour of; नाभ्युत्थानक्रिया यत्र Pt.2.62.
Starting, departure, setting out; arrangements for starting; अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ Rām.6.92.62.
Rise (lit. and fig.), elevation, exaltation, prosperity, dignity, a position of dignity or authority; (तस्य) नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः R.4.3; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थान- मधर्मस्य तदात्मानं सृजाम्यहम् Bg.4.7 when impiety increases or is in the ascendant.
Sunrise.
