सामग्री पर जाएँ

अभ्युदयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभ्युदयः, पुं, (अभि + उत् + इन् + अच् ।) इष्ट- लाभः । विवाहादिः । इति आभ्युदयिकशब्दार्थे श्राद्धतत्त्वं ॥ सर्व्वतोभावेनोदथः । अर्थाद्धनजनादि- वृद्धिः । यथा, -- “राजन्नभ्युदयोऽस्तु वल्लनकवे हस्ते किमास्ते तव श्लोकः कस्य कवेरमुष्य कृतिनस्तत् पट्यतां पद्यते । किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना- दुद्वेल्लद्भजवल्लिकङ्कणझणत्कारः क्षणं वार्य्यंतां” ॥ इत्यस्य पूर्ब्बार्द्धं वल्लनकविकर्णाटराजयोर्वाक्यं शेषार्द्धं कालिदासस्य ॥ (उन्नतिः । समृद्धिः । “विपदि धैर्य्यमथाभ्युदये क्षमा सदसि वाकपटुता युधि विक्रमः” । इति हितोपदेशे । पराक्रमः । वीर्य्यं । प्रभावः । “यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीराः” । इति भागवतपुराणं ।)

"https://sa.wiktionary.org/w/index.php?title=अभ्युदयः&oldid=112722" इत्यस्माद् प्रतिप्राप्तम्