सामग्री पर जाएँ

अभ्युदितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभ्युदितः, त्रि, (अभि + उत् + इन् + क्तः ।) यस्मिन् सुप्ते सूर्य्य उदेति सः । सूर्य्योदयकालशायी । इत्यमरः ॥ उदयप्राप्तः । यथा, -- “माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ । ब्रह्मघ्नमपि चाण्डालं कं पतन्तं पुनीमहे” ॥ इति तिथ्यादितत्त्वं ॥ (अभितः सर्व्वतः उदति- शयेन इतं गतं प्रातर्विहितं कर्म्मास्मादिति व्युत्- पत्या सूर्य्योदयकाले निद्रया अननुष्ठिततत्कालो- चितक्रियाकलापः ।)

"https://sa.wiktionary.org/w/index.php?title=अभ्युदितः&oldid=112724" इत्यस्माद् प्रतिप्राप्तम्