सामग्री पर जाएँ

अभ्रकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभ्रकम्, क्ली, (अभ्र गतौ + ण्वुल्, तस्य अक ।) स्वनामख्यातधातुः । आभ इति भाषा । तत्प- र्य्यायः । गिरिजं २ अमलं ३ । इत्यमरः ॥ गिरिजामलं ४ गौर्य्यामलं ५ । इति स्वामी ॥ गिरिजावीजं ६ गरजध्वजं ७ । इति वाचस्पतिः ॥ शुभ्रं ८ । इति जटाधरः ॥ घनं ९ व्योम १० अब्दं ११ । इति रत्नमाला ॥ अभ्रं १२ भृङ्गं १३ अम्बरं १४ अन्तरीक्षं १५ आकाशं १६ बहु- पत्रं १७ खं १८ अनन्तं १९ गौरीजं २० गौरी- जेयं २१ । इति राजनिर्घण्टः ॥ अस्य गुणाः । रसायनत्वं । स्निग्धत्वं बलवर्णाग्निवर्द्धकत्वञ्च । इति राजवल्लभः ॥ अपि च । गुरुत्वं । हिमत्वं । बल्यत्वं । कुष्ठमेहत्रिदोषनाशित्वञ्च ॥ * ॥ तच्चतु- र्व्विधं यथा, -- “श्वेतं पीतं लोहितं नीलमभ्रं चातुर्व्विध्यं चातिभिन्नक्रियार्हं । श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधिव्यग्रमग्र्यं गुणाढ्यं” ॥ इति मदनविनोदः ॥ (“अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः । अनयोर्मेलनं देवि मृत्युदारिद्र्यनाशनं” ॥ इति चक्रदत्तः ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभ्रकम् [abhrakam], [स्वार्थे कन्] Talc, mica; said to be produced from Pārvatī's menstrual discharge. -Comp. -भस्मन् n. calx of talc. -सत्त्वम् steel.

"https://sa.wiktionary.org/w/index.php?title=अभ्रकम्&oldid=206415" इत्यस्माद् प्रतिप्राप्तम्