अमङ्गलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमङ्गलः, पुं, (नास्ति मङ्गलं यस्य) एरण्डवृक्षः ॥ इति शब्दचन्द्रिका ॥
अमङ्गलः, त्रि, (न मङ्गलः, नञ्समासः ।) मङ्गल- शून्यः । अकुशलः । यथा । “अमङ्गलं रूपमिदं दधत् कथं” । इति विद्वन्मोदतरङ्गिणी ॥ मङ्गला- भावे क्ली । यथा । “अमङ्गलाभ्यासरतिं विचिन्त्य तं” । इति कुमारसम्भवः ॥
