सामग्री पर जाएँ

अमङ्गलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमङ्गलम्, क्ली, (नास्ति मङ्गलं शुभं यस्मात् तत् ।) अशुभसूचकं । तद्यथा -- “सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसङ्ख्यकैः । ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ॥ ययौ तथापि समरं न जगाम गृहं पुनः । मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरां ॥ कृष्णवस्त्रपरीधानामपरां विधवामपि । मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टिनीं । पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो । कुम्भकारं तैलकारं व्याधं सर्पोपजीविनं ॥ कुचेलमतिरूक्षाङ्गं नग्नं काषायवासिनं । अङ्गविक्रयिणञ्चैव कन्याविक्रयिणं तथा ॥ चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च । सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषं ॥ श्राद्धपात्रञ्च पिण्डञ्च मोटकं वानरं तथा । देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनं ॥ शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकं । कुशपुत्तलिकाञ्चैव शवदाहनकारिणं ॥ शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च । कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणं ॥ दक्षिणे च शृगालञ्च कुर्व्वन्तं भैरवं रवं । कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलं ॥ कलहञ्च विलापञ्च विलापकारिणं जनं । अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणं ॥ मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनं । पुंश्चलीपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनं ॥ देवतागुरुविप्राणां वस्तुवित्तापहारिणं । दत्तापहारिणं दस्युं हिंसकं सूचकं खलं ॥ पितृमातृविरक्तञ्च द्विजाश्वत्यविधातिनं । सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनं ॥ विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकं । गुरुदेवद्विजानाञ्च निन्दकं स्वाङ्गघातकं ॥ जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्द्दयं । व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकं ॥ गलितव्याधिगात्रञ्च काणं वधिरमेव च । पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा ॥ क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा । मूत्रं पुरीषं श्लेष्माणं कन्थिनं नृकपालिनं ॥ झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनं । वृकञ्च शूकरं गृव्रं श्येनं कङ्कञ्च भल्लुकं ॥ पाशञ्च शुष्ककाष्ठञ्च बायसं गन्धकं तथा । अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रोपजीविनं ॥ वैद्यञ्च रक्तपुष्पञ्चैवौषधं तुषमेव च । कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणं ॥ दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि । मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरं ॥ वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ह । तथापि राजा निःशङ्को दर्शं दर्शममङ्गलं” ॥ इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=अमङ्गलम्&oldid=112789" इत्यस्माद् प्रतिप्राप्तम्