अमन्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमन्दः, पुं, (न मन्दः विरोधे नञ्समासः ।) वृक्षः । इति शब्दचन्द्रिका ॥ मन्दभिन्ने त्रि । यथा । “पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना- न्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।” इति श्रीभागवतं ॥ (भीषणः । घोरः । अतिगभीरः । “आगुञ्जद्गिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णंज्वरम् ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्मयन्” । इति उत्तरचरिते । प्रचुरः । बहुलः । अनल्पः । “क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्द्दिनद्विरदवारिदैरावृतः” ॥ इति उत्तरचरिते । “आनन्दममन्दमिमं कुवलय- दलनोचने ददासि त्वं” । इति काव्यप्रकाशः । अजडः । कुशलः । उद्योगी ।)
