सामग्री पर जाएँ

अमर्षणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमर्षणः, त्रि, (मृष् + बाहुल्यात् कर्त्तरि ल्युट् नञ्समासः ।) क्रोधी । इत्यमरः ॥ (क्रोधनः । कोपनस्वभावः । अतिसंक्रुद्धः । प्रक्रोपितः । “रघोवरष्टम्भमयेन पत्रिणा हृदि क्षतोगोत्रभिदप्यमर्षणः” । इति रघुवंशे । असहनः । असहिष्णुः ॥ पर- कृतापमानादेरसहनशीलः । “गत्वा ह्रदे वासुदेवेन सार्द्धं अमर्षणं धर्षयतः सुतं मे” । इति महाभारते । “अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः” । इति रघुवंशे ।)

"https://sa.wiktionary.org/w/index.php?title=अमर्षणः&oldid=112834" इत्यस्माद् प्रतिप्राप्तम्