सामग्री पर जाएँ

अमुकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमुकम्, त्रि, बुद्धिस्थत्वोपलक्षिततत्तत्धर्म्मावच्छिन्नं । स्वस्ववृत्तिविशेषधर्म्मपुरस्कारेण तत्तद्वस्तुवाचकं । फलना इति भाषा । अदस्शब्दस्य अकि कृते सोरोत्त्वाभावे अकोऽकारस्य उत्त्वे अमुक इति भवति अमुक इत्यागमिकं । इति क्रमदीश्वरः ॥ यथा, -- “अमुकामुकगोत्रैतत् तुभ्यमन्नं स्वधा नमः” । इति श्राद्धतत्त्वं ॥ (अभिवादये इति शब्दोच्चारणा- नन्तरं अमुकनामाहमस्मीति स्वं नाम परिकी- र्त्तयेत् । इति कुल्लूकभदृः । “संनिवेशं प्रमाणञ्च स्वहस्तेन लिखेत् स्वयम् । मतं मेऽमुकपुत्त्रस्य अमुकस्य महीपतेः” ॥ इति नारदः ।)

"https://sa.wiktionary.org/w/index.php?title=अमुकम्&oldid=112868" इत्यस्माद् प्रतिप्राप्तम्