सामग्री पर जाएँ

अमूर्त्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमूर्त्तः, त्रि, (मूर्च्छ + क्तः, नञ्समासः ।) मूर्त्त- भिन्नः । मूर्त्तिरहितः । यथा । सुज्ञाना अमूर्त्त- त्वादिति वोपदेवः ॥ न्यायमते । आकाशं । कालः । दिक् । आत्मा । एषां सामान्यगुणाः संख्या १ परिमितिः २ पृथक्त्वं ३ संयोगः ४ विभागः ५ । आकाशस्य विशेषगुणः शब्दः । कालदिशोर्विशेषगुणो नास्ति आत्मनो विशेष- गुणाः । बुद्धिः १ सुखं २ दुःखं ३ इच्छा ४ द्वेषः ५ यत्नः ६ भावनाख्यसंस्कारः ७ धर्म्मः ८ अधर्म्मः ९ । इति भाषापरिच्छेदः ॥ (रूपहीनः । आकृतिरहितः । वायुः । अन्तरीक्षञ्च । यदुक्तं, -- “सन्निवेश्यो नेत्रदृश्यो यस्य तन्मूर्त्तमुच्यते । क्षित्यम्ब्बग्नित्रयं मूर्त्तममूर्त्तं त्वितरद्वयं” ॥ इति । “क्षितिर्जलं तथा तेजः पवनो मन एव च । परापरत्वमूर्त्तत्वक्रियायोगाश्रया अमी” ॥ इति भाषापरिच्छेदः ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमूर्त्त¦ त्रि॰ न॰ त॰। मूर्त्तभिन्ने अवयवशून्ये अपरिच्छिन्नपरिमाणे
“क्षितिर्ज्जलं तथा तेजः पवनोमन एव च। परापरत्वमूर्त्तत्वक्रियावेगाश्रया अमो” भाषा॰
“मूर्त्तत्वमवच्छि-परिमाणवत्त्वमिति” सि॰ मुक्ता॰ तड्वीने गगनादौ।
“द्वेवाव ब्रह्मणो रूपे मूर्त्तञ्चामूर्त्तमेव च” शत॰ ब्रा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमूर्त्त¦ mfn. (-र्त्तः-र्त्ता-र्त्तं) Formless, shapeless, unembodied. E. अ neg. मूर्त्ति form; the final changed.

"https://sa.wiktionary.org/w/index.php?title=अमूर्त्त&oldid=206850" इत्यस्माद् प्रतिप्राप्तम्