अमूर्त्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमूर्त्तः, त्रि, (मूर्च्छ + क्तः, नञ्समासः ।) मूर्त्त- भिन्नः । मूर्त्तिरहितः । यथा । सुज्ञाना अमूर्त्त- त्वादिति वोपदेवः ॥ न्यायमते । आकाशं । कालः । दिक् । आत्मा । एषां सामान्यगुणाः संख्या १ परिमितिः २ पृथक्त्वं ३ संयोगः ४ विभागः ५ । आकाशस्य विशेषगुणः शब्दः । कालदिशोर्विशेषगुणो नास्ति आत्मनो विशेष- गुणाः । बुद्धिः १ सुखं २ दुःखं ३ इच्छा ४ द्वेषः ५ यत्नः ६ भावनाख्यसंस्कारः ७ धर्म्मः ८ अधर्म्मः ९ । इति भाषापरिच्छेदः ॥ (रूपहीनः । आकृतिरहितः । वायुः । अन्तरीक्षञ्च । यदुक्तं, -- “सन्निवेश्यो नेत्रदृश्यो यस्य तन्मूर्त्तमुच्यते । क्षित्यम्ब्बग्नित्रयं मूर्त्तममूर्त्तं त्वितरद्वयं” ॥ इति । “क्षितिर्जलं तथा तेजः पवनो मन एव च । परापरत्वमूर्त्तत्वक्रियायोगाश्रया अमी” ॥ इति भाषापरिच्छेदः ।)
