सामग्री पर जाएँ

अमृतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमृतः, पुं, (मृ + कर्त्तरि क्तः, नञ्समासः ।) धन्व- न्तरिः । देवता । इति मेदिनी । वाराहीकन्दः । वनमुद्गः । इति राजनिर्घण्टः ॥ सुन्दरः । अति- हृद्यः । इति भरतधृतव्याडिः ॥ (आत्मा, यथा महाभारते, -- “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तादमृतः परः । अमृतान्न परं किञ्चित् सा काष्ठा सा परा गतिः” ॥ सूर्य्यः ॥ सुरपतिरिन्द्रः ॥ विष्णोः सहस्रनाममध्ये परिगणितो नामभेदः ॥) मरणरहिते त्रि । यथा । “अमृते जारजः कुण्डः” । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=अमृतः&oldid=112885" इत्यस्माद् प्रतिप्राप्तम्