अमृताहरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमृताहरणः, पुं, (अमृतमाहरति, मातृदास्याप- नयनार्थं स्वर्गात् भूलोकं नयति, आ + हृ + कर्त्तरि ल्युट्, ततः षष्ठीतत्पुरुषः ।) गरुडः । इति हारावली ॥ (“पुरा किल गरुडो मातु- र्विनतायाः सपत्नीदास्यनिवारणार्थं सर्व्वदेवान् विनिर्जित्य सोमरक्षकच्छेदनयन्त्रादिकञ्चातिक्रम्य स्वर्गादमृतं नागकुलाय दातुमाहृतवान्” । इति पौराणिकी कथा । महाभारतस्यादिपर्ब्बणि । “श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ! ॥ इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ॥ गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुं ॥ {एल्} {एल्} {एल्} स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयं ॥ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । {एल्} {एल्} {एल्} अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान् ॥ {एल्३} {एल्३} {एल्} एवं तदमृतं तेन हृतमाहृतमेव च । द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमृताहरण¦ पु॰ अमृतमाहरति मातृदास्यनिवारणार्थंस्वर्गात् भूलोकं नयति आ + हृ--ल्युट्। गरुडे तत्-कथा भा॰ आदि प॰
३३ अ॰।
“तान् कृत्वापतगश्रेष्ठः सर्व्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽ-मृतस्यार्थे सर्व्वतोऽग्निमपश्यत॥ आवृण्वानं महाज्ज्वाल-मर्चिर्भिः सर्वतोऽम्बरे। दहन्तमिव तीक्ष्णांशुं चण्डवायुस-मीरितम्॥ ततो नवत्या नवतीर्म्मुखानां कृत्वा महात्मागरुडस्तरस्वी। नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्यपुनर्ज्जवेन॥ ज्वलन्तमग्निं तममित्रतापनः समास्तरत् पत्र-रथो नदोभिः। ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्नि-मभिप्रशाम्य॥ जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः। प्रविवेश बलात् पक्षी वारिवेग इवार्णवम्॥ स चक्रं क्षुरपर्य्य-न्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ ज्ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोर-रूपं तमत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ तस्यान्तरं स दृष्ट्वैवपर्य्यवर्त्तत खेचरः। आरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेनह॥ अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती। विद्युज्जिह्वौमहावोर्य्यौ दीप्तास्यौ दीप्तलोचनौ॥ चक्षुर्विषौ महाघोरौनित्यं क्रुद्धौ तरस्विनौ। रक्षार्थमेवामृतस्य ददर्श भुजगो-त्तमौ॥ सदा संरक्तनयनौ सदा चानिमिषेक्षणौ। बयोरे-कोऽपि यं पश्येत् स तूर्णं भस्मसाद्भवेत्॥ तयोश्चक्षूंषि रजसासुपर्णः सहसावृणोत्। ताभ्यामदृष्टरूपोऽसौ सर्वतः[Page0327-b+ 38] समताडयत्॥ तयोरङ्गे समाक्रम्य वैनतयोऽन्तरीक्षगः। अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ समुत्पाट्यामृतंतत्र वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्यवीर्य्यवान्॥ अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः। अगच्छदपरिश्रान्त आवार्य्यार्कप्रभां ततः”॥ तृच्। अमृता-हर्त्ता तत्रैव।
“काश्यपेयोऽमृताहर्त्ता” ध्वजपूजामन्त्रः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमृताहरण¦ m. (-णः) A name of GARUDA, the bird of VISHNU. E. अमृत, हृ to convey, with आङ् prefixed, and ल्युट् affix; GARU4DA having upon one occasion stolen the Amrita.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमृताहरण/ अमृता m. " nectar-stealer " , N. of गरुड
अमृताहरण/ अमृता n. N. of a परिशिष्टwork of the SV.
