सामग्री पर जाएँ

अमृताहरणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अमृताहरणः, पुं, (अमृतमाहरति, मातृदास्याप- नयनार्थं स्वर्गात् भूलोकं नयति, आ + हृ + कर्त्तरि ल्युट्, ततः षष्ठीतत्पुरुषः ।) गरुडः । इति हारावली ॥ (“पुरा किल गरुडो मातु- र्विनतायाः सपत्नीदास्यनिवारणार्थं सर्व्वदेवान् विनिर्जित्य सोमरक्षकच्छेदनयन्त्रादिकञ्चातिक्रम्य स्वर्गादमृतं नागकुलाय दातुमाहृतवान्” । इति पौराणिकी कथा । महाभारतस्यादिपर्ब्बणि । “श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ! ॥ इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ॥ गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुं ॥ {एल्} {एल्} {एल्} स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयं ॥ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । {एल्} {एल्} {एल्} अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान् ॥ {एल्३} {एल्३} {एल्} एवं तदमृतं तेन हृतमाहृतमेव च । द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना” ॥)

"https://sa.wiktionary.org/w/index.php?title=अमृताहरणः&oldid=112915" इत्यस्माद् प्रतिप्राप्तम्