अमोघः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमोघः, त्रि, (न मोघो निष्फलः, नञ्समासः ।) सफलः । अव्यर्थः । इति मेदिनी ॥ नदविशेषे पुं । इति शब्दरत्नावली ॥ (इष्टफलप्रदः । अबन्ध्यः । अविफलः । “यदमोघमपामन्तरुप्तं वीजमज त्वया” । इति कुमारसम्भवे । “अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः” । इति रघुवंशे ।
