अम्बरीषः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्बरीषः, पुं, (अम्ब्यते पच्यते अत्र, निपातनात् साधुः ।) विष्णुः । शिवः । इति त्रिकाण्डशेषः ॥ किशोरः । भास्करः । नृपभेदः । स तु सूर्य्य- वंशीयनाभागराजपुत्त्रः । (“भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः । नाभागस्तु श्रुतस्यासीत् पुत्त्रः परमधार्मिकः ॥ अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्” ॥ इति हरिवंशे ।) नरकभेदः ॥ आम्रातकवृक्षः । अनुतापः । इति मेदिनी ॥
