अम्बष्ठा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्बष्ठा, स्त्री, (अम्बायां मातरि स्वोत्पत्तिस्थाने इति यावत्, तिष्ठति, अम्बा + स्था + कः, अम्बेत्यादिना षत्वम् पूर्ब्बवत् ह्रस्वः, स्त्रियां टाप् ।) क्षुप- विशेषः । अम्बाडा इति ख्याता । अस्याः पर्य्यायः । बालिका २ बाला ३ शठाम्बा ४ अम्बालिका ५ अम्बिका ६ अम्बा ७ माचिका ८ दृढवल्का ९ मयूरिका १० गन्धपत्री ११ चित्रपुष्पी १२ श्रेयसी १३ मुखवाचिका १४ छिम्लपत्री १५ भूरि- मल्ली १६ । अस्या गुणाः । कषायत्वं । अम्लत्वं । कफकण्ठरोगवातरोगवलाशनाशित्वं । रुच्यग्निका- रित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ पाठा । चाङ्गेरी । यूथिका । इत्यमरमेदिनीकरौ ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्बष्ठा स्त्री।
यूथिका
समानार्थक:मागधी,गणिका,यूथिका,अम्बष्ठा
2।4।71।2।3
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी। गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
अम्बष्ठा स्त्री।
पाटा
समानार्थक:पाटा,अम्बष्ठा,विद्धकर्णी,स्थापनी,श्रेयसी,रसा,एकाष्टीला,पापचेली,प्राचीना,वनतिक्तका
2।4।84।2।2
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि। पाटाम्बष्टा विद्धकर्णी स्थापनी श्रेयसी रसा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
अम्बष्ठा स्त्री।
अम्ललोणिका
समानार्थक:चाङ्गेरी,चुक्रिका,दन्तशठा,अम्बष्ठा,अम्ललोणिका
2।4।140।2।4
एलापर्णी तु सुवहा रास्ना युक्तरसा च सा। चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्बष्ठा¦ स्त्री अम्ब्यते शब्द्यते अम्बा तादृशी सती तिष्ठति स्था-क अम्बा॰ षत्वम्। (अम्बाडा) इति ख्यातायाम् शठा-म्बायाम् (पटांडु) इति हिमगिरिप्रसिद्धायां
१ पाठायाम्।
२ चाङ्गेर्य्याम्।
३ यूथिकायाञ्च। संज्ञायां कन् अत इत्त्वे। अम्बष्ठिका। (वामन् हाटी)
४ ब्राह्मीलतायाम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्बष्ठा/ अम्ब-ष्ठा f. Jaiminum Auriculatum L.
अम्बष्ठा/ अम्ब-ष्ठा f. Clypea Hernandifolia Sus3r.
अम्बष्ठा/ अम्ब-ष्ठा f. Oxalis Corniculata Sus3r.
अम्बष्ठा/ अम्ब-ष्ठा f. an अम्बष्ठwoman [Comm. on Mn. x , 15 ]