सामग्री पर जाएँ

अम्भोनिधिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्भोनिधिः, पुं, (अम्भांसि निधीयन्तेऽत्र, अम्भस् + नि + धा + किः ।) समुद्रः । इति शब्दरत्नावली ॥ (“असूत सा नागबधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यं” । इति कुमारसम्भवे । विष्णोः सहस्रनाममध्ये परिगणितो नामभेदः, अम्भांसि देवमनुष्यादयो निधीयन्ते अस्मिन् इति व्यत्पत्त्या, नारायणस्य सर्व्वाश्रयत्वात् । “अम्भोनिधिरनन्तात्मा” । इति महाभारते ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्भोनिधिः¦ पु॰ अम्भांसि निधीयन्तेऽत्र अम्भस्--नि + धा--कि।

१ समुद्रे।
“मैनाकमम्भोनिधिबद्धसख्यम्” कु॰
“अम्भो-निधिर्वहति दुर्वहबाडवाग्निम्” चौ॰ प॰।

"https://sa.wiktionary.org/w/index.php?title=अम्भोनिधिः&oldid=207225" इत्यस्माद् प्रतिप्राप्तम्