अम्लः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लः, पुं, (अम + क्ल ।) षड्रसमध्ये रसविशेषः । टक इति भाषा । तोयाग्निगुणबाहुल्यादम्लः । इति सुश्रुतः । अस्य गुणाः । शाकवद्दोषकारित्वं । हृद्यत्वं । रुच्यग्निरक्तमांसकारित्वं । शीतलत्वं । वायुनाशित्वं । स्निग्धोष्णत्वं । कटुरसतोऽधिकोष्ण- वीर्य्यत्वं । जिह्वोद्वेगकारित्वञ्च । इति राजवल्लभः ॥ अस्य दन्तोद्वेगकारित्वगुणोऽप्यस्ति । अपि च । प्रीत्यग्निपटुताकारित्वं । प्रपाचनत्वं । इति राज- निर्घण्टः ॥ * ॥ तदतिशयभक्षणगुणाः । पाचकत्वं । पित्तश्लेष्मवान्तिक्लेदकारित्वं । लघुत्वं । उष्णत्वं । वहिःशीतत्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥ भ्रान्तितुष्टिकफपाण्डुदोषकार्श्यकासकारित्वं । इति राजनिर्घण्टः ॥ तद्वति त्रि । इत्यमरः ॥ * ॥ अम्लवेतसः । इति राजनिर्घण्टः ॥ (यदाह वा- भटः ॥ “अम्लः क्षालयते मुखम् । हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः अम्लोऽग्निदीप्तिकृत् स्निग्धो हृद्यः पाचनरोचनः ॥ उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः । करोति कफपित्तास्रं मूढवातानुलोमनम् ॥ सोऽत्यभ्यस्तस्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमं । कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्” ॥ हारीतेन यदुक्तं तद्यथा, -- “जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी, बीभत्सं वा जनयति तथा वातरोगापहारी । कण्डूकुष्ठक्षतरुजकरै लोलितः शोफिने स्या- दम्लः प्रोक्तः पवनशमनोऽसृक्प्रकोपं तनोति” ॥ सुश्रुतश्चाह ॥ “अम्लो जरणः पाचनः पवननिग्रहणो- ऽनुलोमनः कोष्ठ-विदाही वहिःशीतः क्लेदनः प्रा- यशोहृद्यश्चेति । सएवंगुणोप्येक एवात्यर्थमुपसेव्य- मानो दन्तहर्ष-नयन-सम्मीलन-रोमसंवेजनकफ- विलयन-शरीरशैथिल्यान्यापादयति तथा क्षता- भिहत-दग्ध-दष्ट-भग्न-रुग्न-शून-प्रच्युतावमूत्रित-वि- सर्पित-छिन्न भिन्न-विद्धोत्पिष्टादीनि पाचयत्या- ग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्चेति” ॥ ० ॥ “अम्लोरसो भक्तं रोचयति, अग्निं दीपयति, देहं वृंहयति, जर्ज्जरयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं बर्द्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यं संस्रावयति, भुक्तमपकर्ष- यति, क्लेदं जनयति, प्रीणयति । लघुरुष्णः स्नि- ग्धश्च ॥ सएवंगुणोऽप्येकएवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति, तर्पयति, संमीलयति अक्षिणी, संवीजयति लोमानि, कफं विलापयति, पित्त- मभिवर्द्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीण-क्षत-कृशदुर्ब्बलानां श्वयथुमापादयति । अपि च क्षताभिहत-दष्ट- दग्ध-भग्न-शून -- च्युतावमूत्रित-परिसर्पित-मर्द्दित- च्छिन्न-विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्च” ॥ इति चरकः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लः [amlḥ], Sourness.
