सामग्री पर जाएँ

अम्ललोणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्ललोणिका, स्त्री, (अम्लं रसं लाति गृह्णाति अम्ललः तम् ऊनयति हीनयति, अम्लल + ऊन + ण्वुल्, णत्वम् ।) क्षुद्रवृक्षविशेषः । आम- रुल । इति भाषा । तत्पर्य्यायः । चाङ्गेरी २ चुक्रिका ३ दन्तशठा ४ अम्बष्ठा ५ । इत्यमरः ॥ अस्या गुणाः । कफवायुनाशित्वं । अग्निदीपनत्वं । ग्रहणीरोगे हितकारित्वञ्च । इति राजवल्लभः ॥ वस्त्रादिलग्नलौहचिह्नकषायरागनाशकगुणोऽप्य -- स्ति । राजनिर्घण्टोक्तगुणपर्य्यायौ क्षुद्राम्लिका- शब्दे द्रष्टव्यौ । तत्पर्य्यायगुणाः । “चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका । अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः” ॥ क्वचित् पुस्तके कुशलीस्थाने शकली इति च पाठः । “चाङ्गेरी दीपनी रुच्या लघूष्णा कफवातनुत् । पित्तलाम्ला ग्रहण्यर्शःकुष्ठातीसारनाशिनी” ॥ इति भावप्रकाशः ॥ (“दीपनी चोष्णवीर्य्या च ग्राहिणी कफमारुते । प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा” ॥ इति चरकः ॥ “चाङ्गेरी कफवातघ्नी वह्निकृद् ग्रहणी हिता” । इति वैद्यकद्रव्यगुणः ॥ “चाङ्गेर्य्यम्लाग्निदीपनी” । “ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः” ॥ इति च वाभटः ॥ “ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता । उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी” ॥ इति सुश्रुतश्च ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्ललोणिका स्त्री।

अम्ललोणिका

समानार्थक:चाङ्गेरी,चुक्रिका,दन्तशठा,अम्बष्ठा,अम्ललोणिका

2।4।140।2।5

एलापर्णी तु सुवहा रास्ना युक्तरसा च सा। चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्ललोणिका¦ f. (-का) Wood-sorrel, (Oxalis corniculata,) also अम्ललोणी and अम्ललोलिका।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्ललोणिका/ अम्ल--लोणिका f. wood sorrel (Oxalis Corniculata).

"https://sa.wiktionary.org/w/index.php?title=अम्ललोणिका&oldid=488267" इत्यस्माद् प्रतिप्राप्तम्