अम्लवेतस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लवेतसः, पुं, स्वनामप्रसिद्धः अम्लरसवृक्षविशेषः । चुकाशाक इति ख्यात इति केचित् । अम्ल- कुचाइ इति ख्यात इति केचित् । इत्यमर- टीकायां भरतः ॥ तत्पर्य्यायः । अम्लः २ बेधी ३ रसाम्लः ४ आम्लवेतसः ५ वेतसाम्लः ६ अम्ल- सारः ७ शतबेधी ८ बेधकः ९ भीमः १० भेदनः ११ भेद्री १२ राजाम्लः १३ अम्लभेदनः १४ अम्ला- ङ्कुशः १५ रक्तसारः १६ फलाम्लः १७ अम्ल- नायकः १८ सहस्रबेधी १९ वीराम्लः २० गुल्म- केतुः २१ वराभिधा २२ शङ्खद्रावी २३ मांस- द्रावी २४ । इति राजनिर्घण्टः ॥ वराङ्गी २५ । इति रत्नमाला ॥ चुक्रः २६ । इत्यमरः ॥ तत्फल- गुणाः । अत्यम्लत्वं । कषायत्वं । उष्णत्वं । वायु- कफार्शःश्रमगुल्मनाशित्वं । अरुचिहारित्वञ्च । इति राजनिर्घण्टः ॥ छागमांसलौहसूचीद्रव- कारित्वं । चणकाम्लवत् गुणकारित्वञ्च । इति भावप्रकाशः ॥ आनाहरोगनाशित्वं । तत्पक्व- फलगुणाः । दोषविनाशित्वं । गुरुत्वं । धारकत्वञ्च । इति राजवल्लभः ॥ तत्पर्य्यायगुणाः । “स्यादम्लवेतसश्चुक्रः शतबेधी सहस्रजित् । अम्लवेतसमत्यम्लं भेदनं लघु दीपनं ॥ हृद्रोगशूलगुल्मघ्नं पित्तलोहितदूषणं । रूक्षं विण्मद्यदोषघ्नं प्लीहोदावर्त्तनाशनं ॥ हिक्कानाहारुचिश्वासकासाजीर्णवमिप्रणुत् । कफवातामयध्वंसि छागमांसद्रवत्वकृत् ॥ चणकाम्लगुणं ज्ञेयं लौहसूचीद्रवत्वकृत्” । इति भावप्रकाशः ॥ (“अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः । गुणैस्तैरेव संयुक्तं भेदनन्त्वम्लवेतसम्” ॥ इति च चरकः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लवेतस पुं।
अम्लवेतसः
समानार्थक:सहस्रवेधिन्,चुक्र,अम्लवेतस,शतवेधिन्
2।4।141।1।3
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि। नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लवेतस¦ पु॰ अम्लावेतस इव नम्रश्च। (चुका) ख्याते चुक्रे
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लवेतस¦ m. (-सः) A kind of dock or sorrel, (Rumex vesicarius.) E. अम्ल sour, and वेतस a kind of reed; sour grass.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अम्लवेतस/ अम्ल--वेतस m. a kind of dock or sorrel , Rumex Vesicarius MBh. iii , 11568 Sus3r.
अम्लवेतस/ अम्ल--वेतस n. vinegar (obtained from fruit) L.