सामग्री पर जाएँ

अम्लिकावटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्लिकावटकः, पुं, (अम्लिकाया वटकः ।) अम्लिकां स्वेदयित्वा जलेन सह मर्दयित्वा तत्सं स्कृतजले मग्नवटकः । अम्लवडा इति भाषा । अस्य गुणाः । रुच्यग्निकारित्वं । वटकगुणतुल्यगुणत्वञ्च । इति भावप्रकाशः ॥ (“अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् । तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः । अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः । वटकस्य गुणैः पूर्ब्बैरेतेऽपि च समन्विताः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अम्लिकावटक¦ पु॰ अम्लिकाया वटकः। भावप्रकाशोक्ते (अम्लवडी) इति ख्याते वटकभेदे यथा
“अम्लिकां स्वेदयित्वा तुजलेन सह मर्द्दयेत्। तन्नीरे कृतसंस्कारे वटकान् मज्जयेत्पुनः। अम्लिकावटकास्ते तु रुच्यवह्निप्रदीपनाः” भा॰ प्र॰।

"https://sa.wiktionary.org/w/index.php?title=अम्लिकावटक&oldid=488279" इत्यस्माद् प्रतिप्राप्तम्