अयनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयनम्, क्ली, (अय + भावे ल्युट् ।) शास्त्रं । यथा, -- “ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते” । इति तिथ्यादितत्त्वं ॥ पन्थाः । सूर्य्यस्य उत्तर- दक्षिणदिग्गमनं । तद्यथा । माघादिषण्मासाः उत्तरायणं । श्रावणादिषण्मासाः दक्षिणायनं । इत्यमरः ॥ गमनं । गत्थर्थायधातोर्भावेऽनट् ॥ रविसंक्रान्तिविशेषः । यथा भविष्यमात्स्यज्यो- तिषेषु । “मृगकर्कटसंक्रान्ती द्वे तूदक्दक्षिणायने । विषुवती तुला मेषे गोलमध्ये तथापराः” ॥ मृगो मकरः । गोलो राशिचक्रं । देवीपुराणे, “यावद्विंशकला मुक्ता तत्पुण्यं चोत्तरायणे । निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने” ॥ तत्र स्नानदानादौ कोटिगुणफलं भवति । यथा मात्स्ये । “अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।” इत्वादि । “अयने विषुवे चैव शयने बोधने हरेः । अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिषु” ॥ इति तिथ्यादितत्त्वं ॥ * ॥ सूर्य्यगतिविशेषः । यथा, -- “मृगसंक्रान्तितः पूर्ब्बं पञ्चात्तारादिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥ षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवं । कर्क्किसंक्रमणे तद्वदभितो दक्षिणायनं” ॥ इति ज्योतिस्तत्त्वं ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Six months constitute an अयन। Distin- guished as the southern and northern corresponding to the course of the sun towards the north and south of the equator; फलकम्:F1: भा. III. ११. ११; Br. II. २१. १२६; २२. १०; २८. १७; वा. 3. १४; २३. १०६, etc.फलकम्:/F suitable for श्राद्ध and दान। फलकम्:F2: M. १७. 2; ८२. २५; ८३. 7; ९८. 2; १०१. ३८; १२४. ९२; १८४. ७२.फलकम्:/F According to divine calcu- lation दक्षिणायन is the night and the उत्तरायण, the day of the Devas; फलकम्:F3: Vi. I. 3. १०; II. 8. ३१, ३६.फलकम्:/F the months of तप, तपस्य, मधु, मा- धव, शुक्र and शुचि are उत्तरायण and the months of नभ, नभस्य, इष, ऊर्ज, सह आन्द् सहस्य are दक्षि- णायन। फलकम्:F4: Vi. II. 8. ८१.फलकम्:/F [page१-094+ २६]

"https://sa.wiktionary.org/w/index.php?title=अयनम्&oldid=425411" इत्यस्माद् प्रतिप्राप्तम्