अयनांशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयनांशः, पुं, (अयनस्य अंशः भागः ।) सूर्य्यगतिवि- शेषस्य भागः । अथायनांशलग्नसाधनं । “लग्नं लग्नान्तरं कृत्वा अयनांशैः प्रपूरयेत् । खानलैर्हरते भागं मिश्रयित्वा दिने दिने” ॥ अस्यार्थः । लग्नं रामोगवेदैरित्याद्युक्तं लग्नान्तरं कृत्वा यथा मेषलग्नं ३ । ४७ लग्नान्तरं वृषलग्नं ४ । १७ अत्रान्तरेण द्वयोराधिक्येन ३० त्रिंशत्पलं तञ्चायनांशैः पूरयेत् ॥ अयनांशस्तु जातकार्णवोक्तः । यथा, -- “शाकमेकाक्षिवेदोनं द्विः कृत्वा दशभिर्हरेत् । लब्धं हीनञ्च तत्रैव षष्ट्याप्ताश्चायनांशकाः” ॥ इति । लब्धस्थाने लब्धेन इति पाठः सिद्धान्त- रहस्ये ॥ ते च इदानीं चैत्रस्यैकादशाहे सम्भवात् ऊनविंशतिसंख्यकाः । ते च पुनःखानलैः ३० त्रिं- शता हरेत् । भागलब्धिस्तु ऊनविंशतिः १९ । तञ्च मेषलग्ने मिश्रयित्वा ४ । ६ षट्पलाधिक- दण्डचतुष्टयात्मकं मेषलग्नं भवति । एवं वृषादिक- मूह्यं । किन्तु लग्नान्तरेण यत्राधिकं लभ्यते तत्रा- धिकं लग्नं भवति । एवं यत्र लग्नान्तरेण हानि- स्तत्र लग्नेऽपि हानिरिति निष्कर्षः ॥ * ॥ इदानीं स्पष्टज्ञानार्थं पद्येन लिख्यते । बाणैवदो ४ । ५- ऽष्टवैदैः श्रुति ४ । ४८-रिभनयनैरिन्द्रियं ५ । २८ -खाम्बुनेषु ५ । ४०-र्बाणो वेदानलैः ५ । ३४ -खाग्निमिरिषु ५ । ३०-रिषुरङ्गाग्निने ५ । ३६ षुःकुवेदै ५ । ४१-र्बाणोनागेन्दुभिस्तु ५ । १८ श्रुतिरपि रसरामै ४ । ३६-र्गुणाः सप्तबाणैः ३ । ५७ रामोऽश्वाद्भिस्तु ३ । ४७-सिद्धान्तजमतमयनांशा- दिदं लग्नमानं ॥ एतञ्च तमोलिप्तादिदेशीयं प्रागुक्तायनांशसाधितं ॥ * ॥ अङ्गेन वेदो ४ । ६ मेषः स्यात् वसुवेदैः सुखं ४ । ४८ वृषः । मुनियुग्मैः शरो ५ । २७ द्वन्द्वः व्योमाब्धिबाण ५ । ४०-कर्कटः ॥ वेदरामैः शरः ५ । ३४ सिंहः कन्याङ्कयुम्मपञ्चकः ५ । २९ । तुला ऋषिरामपञ्च ५ । ३७-वृश्चिकः खाब्धिपञ्चकः ५ । ४० ॥ नवचन्द्रबाण ५ । १९ -- धनुर्वेदरामैः सुखं ४ । ३४ मृगः । वसुपञ्च- त्रयः ३ । ५८ कुम्भः ऋषिवेदत्रयो ३ । ४७ झषः ॥ * ॥ शत्रुर्वेदश्च ४ । ६ मेषो नवसुखसुख ४-४९ । -गौर्मृत्युयुम्मैः शिवास्यो ५ । २८ द्वन्द्यो- ऽङ्काप्यित्तवाणो ५ । ३९ हिमकरभवनो राम- रामैः कलम्बः ५ । ३३ । सिंहः कन्याब्जरामैरिषु ५ । ३१-रिषुजसुखाग्नीषु ५ । ३४-यूकोऽलिपृथ्वी ५ । ४१ वेदेशास्योऽष्टपृथ्वीस्मरहरमुख ५ । १८ कोदण्डमाहुर्वराहाः ॥ बन्धू रामश्च वेदो ४ । ३४ रविसुतभवनः पर्ब्बतः पञ्चरामः ३ । ५७ कुम्भो मीनश्च भुङ्क्ते गिरिसुखदहनं ३ । ४७ प्रत्यहं प्रक्रमेण । अस्तं यामित्रराशावनुदिनमवसाद्यञ्च राजीवनाथो यद्यातिस्म द्रुतं स्यादुदयमनुदिवा- रात्रमाहुर्वराहाः ॥ * ॥ लग्नं लग्नान्तरं कृत्वेति प्रकारान्तरेण यदुक्तं तदपि पद्येन लिख्यते यथा । वेदोऽङ्गै ४ । ६-रिभवेदैः श्रुति ४ । ४८-रिषुरिभ- पक्षैः ५ । २८ कुवेदैश्च बाणो ५ । ४१ बाणो रामानलै ५ । ३३-रिन्द्रियमपि नवाक्षै ५ । २९ रिषुः सप्तरामैः ५ । ३७ बाणः शून्याब्धिने ५ । ४० षुर्धृतिभि ५ । १८ -- रिषुगुणैरब्धि ४ । ३५-रष्टेष- णाग्नी ३ । ५८ रामोऽश्वाद्भिस्तु ३ । ४७ सिद्धान्त- जमतमयनांशादिदं लग्नमानं ॥ “चैत्रस्यैकादशाहे तु विषुवारम्भणं यदा । तदैतल्लग्नमानं हि ज्ञेयमन्यत्र साधनात्” ॥ इति ज्योतिषसंग्रहः ॥ (गतिः । गमनं । मार्गः । “अगस्त्यचिह्नादयनात् समीपं दिगुत्तरा भास्वति सन्निवृत्ते” । इति रघुवंशे । स्थानं । भूमिः । समरसमार- म्भकाले योधानां यथाप्रधानं यूद्धभूमौ पूर्ब्बाप- रादिदिग्विभागेनावस्थितिस्थानं । सेनासन्निवेश- विशेषरूपव्यूहप्रवेशमार्गः । “अयनेषु च सर्व्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व्व एव हि” ॥ इति भगवद्गीता । आश्रयः । विश्रामस्थानं । “आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्ब्बं तेन नारायणः स्मृतः” ॥ इति मनुः । गृहं । वसतिः । वासस्थानं । शास्त्रं । भावसाधनो ग्रन्थः । “शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनञ्चैव वेदङ्गानि षडेव तु ॥ छन्दः पादौ तु वेदस्य हस्तः कल्पोऽथ कथ्यते । ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते” ॥ इति कूर्म्मपुराणे ।)
