अयस्कान्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयस्कान्तः, पुं, (अयस्सु कान्तः रमणीयः ।) लौह- विशेषः । कान्तलोह इति ख्यातः । तत्प- र्य्यायः । कान्तलोहं २ कान्तं ३ लौहकान्तकं ४ कान्तायसं ५ कृष्णलोहं ६ महालोहं ७ । अस्य गुणाः । तीक्ष्णत्वं । उष्णत्वं । रूक्षत्वं । पाण्डुशोथकफपित्तहरत्वं । रसायनत्वं । अनु- त्तमत्वञ्च । स चतुर्व्विधः । भ्रामकः १ चुम्बकः २ रोमकः ३ स्वेदकः ४ । एते रसायने उत्त- रोत्तरगुणिनः । “क्रमेण दार्ढ्याङ्गकान्तिकार्त्स्न्येनीरोगदायिनः” । इति राजनिर्घण्टः ॥ चुम्बकप्रस्तरोऽप्ययं । (चुम्बक इति ख्यातः प्रस्तरभेदः । चुम्बकपाथर इति भाषा । “उमारूपेण ते यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्” ॥ इति कुमारसम्भवे ।) (“ततः कोटिसहस्रैर्वा कान्तलौहं महागुणं” । इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयस्कान्त¦ पु॰ अयस्सु कान्तः रमणीयः कस्कादि-त्वात् सत्वम्। (कान्तिलौह) इति ख्याते
१ लौहभेदे। अयसां कान्तः इष्टः सन्निधिमात्रेणाकर्षकत्वात्। सन्निधि-मात्रेण लौहाकर्षके (चुम्वक) इति ख्याते
२ प्रस्तरभेदे।
“शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्” कुमा॰
“स चकर्षपरस्मात्तदयस्कान्तमिवायसम्” रघुः। अयस्कान्तेनाकर्ष-णीयशल्यापनयनार्थे
३ व्रणचिकित्साभेदे यथोक्तं सुश्रुते
“अनुलोममनवबद्वमकर्णमनल्पव्रणमुखमयस्कान्तेन”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयस्कान्त¦ m. (-न्तः) A precious stone, the loadstone. E. अयस् and कान्त beautiful, implying a gem, after this word and others, as सूर्य्यकान्त, &c.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयस्कान्त/ अयस्--कान्त m. ( g. कस्का-दि) , " iron-lover " , the loadstone(See. कान्ता-यस) Ragh. xvii , 63 , etc.