सामग्री पर जाएँ

अयस्कान्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अयस्कान्तः, पुं, (अयस्सु कान्तः रमणीयः ।) लौह- विशेषः । कान्तलोह इति ख्यातः । तत्प- र्य्यायः । कान्तलोहं २ कान्तं ३ लौहकान्तकं ४ कान्तायसं ५ कृष्णलोहं ६ महालोहं ७ । अस्य गुणाः । तीक्ष्णत्वं । उष्णत्वं । रूक्षत्वं । पाण्डुशोथकफपित्तहरत्वं । रसायनत्वं । अनु- त्तमत्वञ्च । स चतुर्व्विधः । भ्रामकः १ चुम्बकः २ रोमकः ३ स्वेदकः ४ । एते रसायने उत्त- रोत्तरगुणिनः । “क्रमेण दार्ढ्याङ्गकान्तिकार्त्स्न्येनीरोगदायिनः” । इति राजनिर्घण्टः ॥ चुम्बकप्रस्तरोऽप्ययं । (चुम्बक इति ख्यातः प्रस्तरभेदः । चुम्बकपाथर इति भाषा । “उमारूपेण ते यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्” ॥ इति कुमारसम्भवे ।) (“ततः कोटिसहस्रैर्वा कान्तलौहं महागुणं” । इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)

"https://sa.wiktionary.org/w/index.php?title=अयस्कान्तः&oldid=113115" इत्यस्माद् प्रतिप्राप्तम्