सामग्री पर जाएँ

अयुक्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अयुक्तम्, त्रि, (युज् + क्तः, नञ्समासः ।) अमि- श्रितं । अनुचितं । यथा, -- “अयुक्तं यदिह प्रोक्तं प्रमादेन भ्रमेण वा” । इति दुर्गादासः ॥ (असंसक्तः । संयोगरहितः । अनियोजितः । यथा, “अयुक्तचारा राजानो भविष्यन्ति कथं नु ते” । इति रामायणे । सर्व्वदा विषयासक्तचित्ततया कर्त्तव्येष्वनवहितः । “परावमन्ता विषयेषु सङ्गवान्, न देशकालप्रविभागतत्त्ववित् । अयुक्तबुद्धिर्गुणदोषनिश्चये, विपन्नराज्यो न चिरात् विपत्स्यसे” ॥ इति रामायणे ।)

"https://sa.wiktionary.org/w/index.php?title=अयुक्तम्&oldid=113130" इत्यस्माद् प्रतिप्राप्तम्