सामग्री पर जाएँ

अयोगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अयोगः, पुं, (युज् + घञ्, नञ्समासः ।) विश्लेषः । विधुरः । कूटः । कठिनोद्यमः । इति मेदिनी ॥ वमनविरेचनादीनां प्रतिलोमप्रवृत्तिरल्पप्रवृ- त्तिर्व्वा । यथा, -- “योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्त्तनं । अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्त्तनं” ॥ इति वैद्यकं ॥ (“तत्रासात्म्येन्द्रियार्थसंयोगो- ऽयोगातियोगमिथ्यायोगादियुक्ता रूपरसादयः” ॥ इति माधवकरकृतरोगविनिश्चयग्रन्थे विजय- रक्षितः ॥ “त्रीण्यायतनानीति अर्थानां कर्म्मणः कालस्य चातियोगायोगमिथ्यायोगाः तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः ॥ सर्व्वशो- ऽदर्शनमयोगः अतिसूक्ष्मातिश्लिष्टातिविप्रकृष्ट- रौद्रभैरवाद्भुतद्विष्टबीभत्सविकृतादिरूपदर्शनं । मिथ्यायोगः” ॥ इति चरकः ॥) योगो ध्यानं तदभावः । योगो भेषजं तदभावश्च ॥ (विच्छेदः । मिथः संरूढगाढानुरागयोर्नायकनायिकयोर्गुरु- जनपराधीनतया दैवगत्या वा विप्रकर्षादन्योन्याद- र्शनरूपदशाविशेषः, यदुक्तं दशरूपादर्शे । “तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः । पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमः” ॥ अयञ्च पूर्ब्बराग इत्युच्यते । यदुक्तं दर्पणकारैः । “श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्ब्बरागः स उच्यते” ॥)

"https://sa.wiktionary.org/w/index.php?title=अयोगः&oldid=113138" इत्यस्माद् प्रतिप्राप्तम्