अरण्यचटकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरण्यचटकः, पुं, (अरण्यस्य चटकः, षष्ठीतत्पुरुषः ।) वनचटकः । तत्पर्य्यायः । धूसरः २ भूमिशयः ३ । अस्य गुणाः । शीतत्वं । लघुत्वं । शुक्रवृद्धि- कारित्वं । बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ (अस्य मांसगुणा यथा राजनिर्घण्टे, -- “चटकास्रजं तु शीतं लघु वृष्यं बलप्रदं । तद्वञ्चारण्यचटकं तत्तूष्णं लघुपथ्यदम्” ॥)
