अरतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरतिः, पुं, (ऋ + अति ।) क्रोधः । इत्युणादिकोषः ॥
अरतिः, स्त्री, (रम् + क्तिन्, नञ्समासः ।) अनव- स्थितचित्तत्वं । इति रक्षितः ॥ क्रीडाभावः । इति कार्त्तिकः ॥ रतिविरहः । रतिशून्ये त्रि ॥ (विरक्तिः । प्रीतिविरहः । अनुरागराहित्यं । उत्साहहीनता । उद्यमाभावः । उद्योगराहित्यं । निश्चेष्टता । सुखाभावः । दुःखं । क्लेशः । औत्- सुक्यं । उद्वेगः । इष्टवियोगात् चित्तस्याकुलीभावः । यदुक्तं, -- “स्वाभीष्टवस्त्वलाभेन चेतसो यानवस्थितिः । अरतिः सा तु विज्ञेया” । सुष्ठुताभावः । अस्वास्थ्यं । “श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः” । इति सुश्रुते ।)
