अरन्धन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरन्धनम्, क्ली, (न रन्धनं, अत्र अभावे नञ् ।) पाका- भावः । तत्तु कन्यासंक्रान्त्यां कृतञ्चेत् वृद्धारन्धनं कथ्यते । सौरभाद्रस्य यस्मिन् कस्मिन् दिने कृत- ञ्चेत् इच्छारन्धनमित्युच्यते । इति लोकप्रसिद्धं । तत्र प्रमाणं । “कर्कान्नमद्यात् सिंहाहे सिंहान्नं सिंहकन्ययोः । मनसाशेषनागेभ्यो दत्त्वा सर्व्वं निशोधितं” ॥ इत्याचारमार्त्तण्डधृतवचनं ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरन्धन¦ न॰ अभावे न॰ त॰। पाकाभावे स च सिंह-संक्रान्तौ कन्यासंक्रान्तौ च विधेयः
“कर्कान्नमद्यात्सिंहार्के सिंहान्नं सिंहकन्ययोः”। इत्याचारमार्त्तण्डोक्तेःतस्मिन् पर्य्युषितान्न भोजनविधानेन पाकाभावो गम्यते।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरन्धनम् [arandhanam], Absence of cooking (as on सिंह and कन्या संक्रान्ति).