सामग्री पर जाएँ

अराजकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अराजकः, त्रि, (नास्ति राजा यत्र सः, कप् ।) राजशून्यदेशादिः । यथा, -- “चौरप्रायं जनपदं हीनसत्वमराजकं” । इति श्रीभागवतं ॥ (नियन्तृहीनः । शासनकर्तृ- रहितः । “अराजके जनपदे दोषा जायन्ति वै सदा । उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै” ॥ इति महाभारते ।)

अराजकः, पुं, (नास्ति राजा यत्र सः कप् ।) राज- शून्यदेशादिः । यथा, -- “अराजके हि लोकेऽस्मिन् सर्व्वती विद्रुते भयात् । रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः” ॥ इति मानवे ७ अध्याये ३ श्लोकः ॥

"https://sa.wiktionary.org/w/index.php?title=अराजकः&oldid=113226" इत्यस्माद् प्रतिप्राप्तम्