अरिष्टः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरिष्टः, पुं, (रिष हिंसायां कर्त्तरि क्त, नञ्समासः ।) लशुनः । निम्बः । फेनिलवृक्षः । काकः । कङ्क- पक्षी । इति मेदिनी । वृषभासुरः । इत्यनेकार्थ- ध्वनिमञ्जरी ॥ मद्यविशेषः । इक्षुविकारसहिता- भयाचित्रकदन्तीपिप्यल्यादिभूरिभेषजक्वाथादिसं- स्कारवान् अरिष्टोऽभिधीयते । इति सुश्रुतटीका ॥ अस्य गुणः । अर्शःशोथग्रहणीकफरोगनाशित्वं । इति राजवल्लभः ॥ (“द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं मवेत् । आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितं ॥ यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । अरिष्टः क्वाथसिद्धः स्यात्तयोर्मानिं पलोन्मितं” ॥ इति शार्ङ्गधरः ॥ गुणोऽस्य यथा चरकेणोक्तः ॥ “शोकार्शोंग्रहणीदोषपाण्डुरोगारुचिज्वरान् । हन्त्यरिष्टः कफकृतान्रोगान् रोचनदीपनः ॥ * ॥ दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ त्रिफलाया दलानाञ्च प्रक्षिप्य त्रिपलं ततः । रसे चतुर्थशेषे तु पूते शीते समावपेत् ॥ तुलां गुडस्य तत्तिष्ठेत् मासार्द्धं घृतभाजने । तन्मात्रया पिबेन्नित्यं अर्शोभ्योऽपि प्रमुच्यते ॥ ग्रहणीपाण्डुरोगघ्नं वातवर्ञ्चोऽनुलोमनं ॥ दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः” ॥ इति दन्त्यरिष्टः । इति चरकः ॥ “अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः । बहुदोषहरश्चैव दोषाणां शमनश्च सः ॥ दीपनः कफवातघ्नः सरः पित्तविरोधनः । शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः” ॥ इति सुश्रुतश्च ॥)
