अरिष्टनेमिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरिष्टनेमिः, पुं, (अरिष्टस्य नेमिः, षष्ठीतत्पुरुषः ।) जिनानां चतुर्व्विंशत्यन्तर्गतद्वाविंशतितीर्थङ्करः । इति हेमचन्द्रः ॥ (विनतागर्भसम्भूतः स्वनामख्यातः कश्यपमुनिपुत्त्रः, यथा हरिवंशे, “तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः । अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” ॥ वृष्णेः प्रपौत्रश्चित्रकस्य पुत्रः स्वनामख्यातो राजा, यथा, हरिवंशे, “चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च । अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ । अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मभृत्तथा” ॥ स्वनामख्यातः प्रजापतिः । यथा रामायणे, आदिकाले महाबाहो ये प्रजापतयोऽभवन् । दक्षो विवस्वानपरोऽरिष्टनेमिस्तथैव च । कश्यपश्च महाभागस्तेषामासीदपश्चिमः” ॥)
