सामग्री पर जाएँ

अरिष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अरिष्टम्, क्ली, (रिष हिंसायां कर्त्तरि क्त, नञ्- समासः ।) सूतिकागृहं । (“अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा” । इति रघुवंशे ।) अशुभं । तक्रं । मरणचिह्नं । (यदुक्तम्, “रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते । तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते” ॥) शुभं । इति मेदिनी ॥ उपद्रवः । तत्पर्य्यायः । उप- लिङ्गः २ उपसर्गः ३ अजन्यं ४ ईतिः ५ उत्पातः ६ । इति हेमचन्द्रः ॥ (मद्यं । यथा । द्राक्षारिष्टं । दशसूलारिष्टं । वव्वूलारिष्टं । “अरिष्टं लघुपाकेन सर्व्वतश्च गुणाधिकम् । अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ॥ इति वैद्यके ।) (“मरणचिह्नार्थे लक्षणं यथा । नियतमरणा- ख्यापकलिङ्गं ॥ इति माधवसंगृहीतरोगविनि- श्चयग्रन्थटीकाकृद्विजयरक्षितः ॥ * ॥ तत्र प्रकृत- वर्णोऽर्द्धशरीरे विकृतवर्णोऽर्द्धशरीरे द्वावपि वर्णौ मर्य्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणविभा- गेन यद्येवं पूर्ब्बपश्चिमविभागेन यद्युत्तराधर- विभागेन यद्यन्तर्वहिर्विभागेनातुरस्यारिष्टमिति विद्यात्” ॥ इति चरकः । “शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् । तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे” ॥ इति च सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=अरिष्टम्&oldid=113244" इत्यस्माद् प्रतिप्राप्तम्