सामग्री पर जाएँ

अरुचिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अरुचिः, पुं, (न रुचिर्यत्र सः ।) रोगभेदः । स च सत्यभिलाषेऽभ्यवहारासामर्थ्यरूपः । इति रक्षितः ॥ तत्पर्य्यायः । अरोचकः २ अश्रद्धा ३ अनभिलाषः ४ । इति राजनिर्घण्टः ॥ (“दोषैः पृथक् सह च चित्तविपर्य्ययाञ्च, भक्तायनेषु हृदि चावतते प्रगाढं । नान्ने रुचिर्भवति तं भिषजो विकारं, भक्तोपघातमिह पञ्चविधं वदन्ति” ॥ इति सुश्रुतः । अलङ्कारशास्त्रोक्तदशविधस्मर- दशामध्ये परिगणितो वस्तुवैराग्यरूपः स्मरदशा- विशेषः, यथा साहित्यदर्पणे, -- “अङ्केष्वसौष्ठवं तापः पाण्डुता कृशताऽरुचिः । अरुचिर्वस्तुवैराग्यं सर्व्वत्रारागिता धृतिः” ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अरुचिः [aruciḥ], f.

Aversion, dislike in general; क्व सा भोगानामुपर्यरुचिः K.146.

Want of appetite, disrelish, disgust; सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् Suśr.

Absence of a satisfactory explanation.

"https://sa.wiktionary.org/w/index.php?title=अरुचिः&oldid=207995" इत्यस्माद् प्रतिप्राप्तम्