अरुणोदयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरुणोदयः, पुं, (अरुणस्य बालादित्यस्य उदयो यत्र सः ।) सूर्य्योदयात् पूर्ब्बं मुहूर्त्तद्वयकालः । यथा, -- “चतस्रो घटिकाः प्रातररुणोदय उच्यते । यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः” ॥ इति ब्रह्मवैवर्त्तपुराणं ॥ (यदुक्तं, -- “रजनीशेषयामस्य शेषार्द्धमरुणोदयः” । इति । “मॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये” । इति मनुः ।)
