सामग्री पर जाएँ

अरुणोदयसप्तमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अरुणोदयसप्तमी, स्त्री, (अरुणोदयकाले पुण्य- विशेषजनिका या सप्तमी ।) माघशुक्लसप्तमी । माकरी सप्तमी । यथा । भविष्ये । “सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलं ॥ माघे मासि सिते पक्षे सप्तमी कोटिभास्करा । दद्यात् स्नानार्घदानाभ्यामायुरारोग्यसम्पदः ॥ अरुणोदयवेलायां शुक्ला माघस्य सप्तमी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा” ॥ कोटिभास्करा कोटिसप्तमीतुल्या । सूर्य्यग्रहण- फलं स्नानजं सन्निहिते बुद्धिरन्तरङ्गा इति न्यायात् । तेन बहुशतसूर्य्यग्रहणकालीनगङ्गा- स्नानजन्यफलसमफलप्राप्तिः फलमत्र ज्ञेयं । अत्र बहुशतसूर्य्यग्रहाणां प्रत्येकाधिकरणतासंसर्गे- णान्वयात् कालानां स्नानानां तत्फलानामपि बहु- शतत्वं लभ्यते । अतो नाप्रसिद्धिः ॥ * ॥ पूर्ण- सप्तम्यां पूर्ब्बापरयोर्यत्रारुणोदयकाले सप्तमी तत्र पूर्ब्बदिने तत्काले स्नानं । “चतस्रो घटिकाः प्रातरुणोदय उच्यते । यतीनां स्रानकालोऽयं गङ्गाम्भःसदृशः स्मृतः ॥ त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयं । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ॥ इति कालमाधवीयधृतब्रह्मवैवर्त्तीयेन पूर्ब्बस्य तत्- कालस्य पूर्णतिथिसम्बन्धिदिनकर्त्तव्यकर्म्माङ्गत्वेन इतरस्य चेतराङ्गत्वेनाभिधानात् । अतएव दक्षेण तत्कालमारभ्याह्निककृत्यमभिहितं ॥ * ॥ अत्रा- रुणोदयकाले मुहूर्त्तान्यूनतिथिलाभ एव स्नानं । “व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” ॥ इति विष्णुधर्म्मोत्तरात् । अत्र घटिका मुहूर्त्तं श्राद्धयोग्यकालानुरोधादिति वक्ष्यते । ब्रह्मवैवर्त्त- वचने घटिका दण्डरूपा । षरवचने नाडीनामा- द्यन्तचतुष्टयमित्येकवाक्यत्वात् ॥ * ॥ ये तु सूर्य्यो- दयात् प्रागपि प्रातःस्नानविधानात् तत्रैव माघ- सप्तम्याख्यगुणफलविधिर्लाघवादित्याहुस्तच्चिन्त्यं । प्रकरणान्यत्वे प्रयोजनान्यत्वं इति जैमिनिसूत्रेण प्रकरणमेदे गुणविध्यसिद्धेः । अतएव कल्पतरु- रत्नाकरयोः । “य इच्छेद्विपुलान् भीगान् चन्द्रसूर्य्यग्रहोपमान् । प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ” ॥ इति । विष्णुस्मृतौ । “यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः” । इति नित्यस्नानप्रकरणात् प्रक- रणान्तरास्नानात् प्रकरणान्तराधिकरणन्यायेन काम्यस्नानान्तरमिदमप्युक्तं । न तु गुणफलविधिः । किन्तु काम्यकरणे प्रसङ्गान्नित्यसिद्धिरिति ॥ * ॥ अत्र माघमासनिमित्तकमाघसप्तमीनिमित्तक- काम्यस्नानयोः प्रातर्विधानात् नैमित्तिकत्वेन प्राय- श्चित्तवत् सकृदनुष्ठानं । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया” ॥ इति कात्यायनवचनात् । “न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि । न वासोमिः सहाजस्रं नाविज्ञाते जलाशये” ॥ श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा । कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥ मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः” । अत्र अमावास्याष्टमीव्यतिरिक्ताः शुक्लाः पुनः- पुनस्तथापदोपाकीर्त्तनादानात् । उपक्रमोपसंहा- रयोः शुक्लत्वकीर्त्तनाच्च ॥ अत्र कामधेनौ तृतोया चैव माघस्येति । कल्पतरौ तु तृतीया चैत्रमास- स्येति लिखितं । अत्र पाठद्वैधे श्रीपतिरत्नमा- लायां । “अश्वयुजि शुक्लनवमी द्वादश्यूर्ज्जे मधौ तृतीया च” । इति पाठाच्चैत्रतृतीयैव ग्राह्या । श्रीदत्तोऽप्येवं । माघसप्तम्याश्चान्द्रत्वं सौरागमेऽपि । “अर्कपत्रैः सवदरैर्दूर्व्वाक्षतसचन्दनैः । अष्टाङ्गविधिना चार्घ्यं दद्यादादित्यतुष्टये ॥ माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी । माकरीति च यत्प्रोक्तं तत्प्रायोवृत्तिदर्शनात्” ॥ अष्टाङ्गविधिना । “योऽष्टाङ्गमर्घ्यमापूर्य्य भानोर्मूर्ध्नि निवेदयेत् । ताम्रपात्रार्घ्यदानेन पुण्यं दशगुणं स्मृतं” ॥ इति भविष्यपुराणीयेन । आदित्यपुराणे । “ऋक्षराशिविशेषेण यत्कर्म्म विहितं नरैः । दैवं वाप्यथवा पैत्र्यं तदन्यत्रापि दृश्यते” ॥ * ॥ अर्घ्यमन्त्रस्तु । “जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके । सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले” ॥ प्रणाममन्त्रस्तु । “सप्तसप्तिवहप्रीत सप्तलोकप्रदीपन । सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे” ॥ सप्तिरश्वः । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अरुणोदयसप्तमी¦ स्त्री अरुणोदयकाले पुण्यविशेषसाधनंसप्तमी। माघशुक्लसप्तम्याम्।
“सूर्य्यग्रहेण तुल्या हि शुक्लामाघस्य सप्तमी। अरुणोदयवेलायां तस्यां स्नानं महाफलम्। माघे मासि सिते पक्षे सप्तमी कोटिभास्करा। दद्यात् स्ना-नार्घदानाभ्यामायुरारोग्यसम्पदः। अरुणोदयवेलायां शुक्लामाघस्य सप्तमी। गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैःसमेति” ति॰ त॰ भविष्य पु॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अरुणोदयसप्तमी/ अरुणो f. the seventh day in the bright half of माघL.

"https://sa.wiktionary.org/w/index.php?title=अरुणोदयसप्तमी&oldid=488502" इत्यस्माद् प्रतिप्राप्तम्