अरुन्तदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरुन्तदः, त्रि, (अरूंषि मर्म्माणि तुदति, तुद् + खश् + मुम् च ।) मर्म्मपीडकः । तत्पर्य्यायः । मर्म्मस्पृक् २ । इत्यमरः ॥ (परुषः । कठोरः । श्रवणकटुः । “माकन्दं मकरन्दतुन्दिलममुं गा- हस्व काकः स्वयं कर्णारुन्तुदमन्तरेण रुणितं त्वां मन्महे कोकिलं” । इति भामिनीविलासे । मर्म्मपीडाकरः । हृदयग्रन्थिरूपमर्म्मस्थानस्पर्श- कारी । यथा, “नारुन्तुदः स्यादार्त्तोऽपि न परद्रोहकर्म्मधीः” । इति मनुः । “तीक्ष्णा नारुन्तुदा बुद्धिः कर्म्म शान्तं प्रतापवत्” । इति माघः “अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः” । इति रघुवंशे ।)
