अरोचकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अरोचकः, पुं, (न रोचयति प्रीणयति, रुच् + णिच् + ण्वुल्, नञ्समासः ।) रोगविशेषः । अरुचिरोग इति भाषा । तस्य निदानरूपे । “वातादिभिः शोकभयातिलोभ- क्रोधैर्मनोघ्नाशनरूपगन्धः । अरोचकाः स्युः परिशिष्टदन्तः कषायवक्त्रोऽस्य मतोऽनिलेन ॥ चूर्णीकृतानि यवशूकविमिश्रितानि ॥ क्षुद्रायुतानि वितरेन्मुखधावनार्थ- मन्यानि तिक्तकटुकानि च भेषजानि । मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः, क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥ मूत्रासवैर्गुडकृतैश्च तथात्वरिष्टैः, क्षारासवैश्च मधुमाधवतुल्यगन्धैः । स्यादेषएव कफवातहते विधिश्च, शान्तिं गते हुतभुजि प्रशमाय तस्य ॥ इच्छाभिघातभयशोकहतेऽन्तरग्नौ, भावान् भवाय वितरेत् खलु शक्यरूपान् । अर्थेषु चाप्यपचितेषु पुनर्भवाय, पौराणिकैः श्रुतिपथैरनुमानयेत्तं ॥ दैन्यं गते मनसि बोधनमत्र शस्तं, यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥ * ॥ रसगन्धौ समौ शुद्धौ दन्तीक्वाथेन भावयेत् । जम्बीरस्य रसैर्वापि आर्द्रकस्य रसेन वा ॥ मातुलुङ्गस्य तोयेन तस्य मज्जरसैर्बुधः । पश्चाद्विशोष्य सर्व्वांस्तान् टङ्गणञ्चावचारयेत् ॥ देवपुष्पं बाणमितं रसपादं मृतामृतं । मासमात्रञ्च तत् सर्व्वं नागरेण गुडेन वा ॥ सर्व्वारोचकशूलार्त्तिमामवातं सुदारुणं । सोऽयं निवारयत्याशु केशरी करिणं यथा” ॥ सुधानिधिरसः ॥ * ॥ इति वैद्यकरसेन्द्रसार- संग्रहः ॥)
