अर्कः

विकिशब्दकोशः तः
Jump to navigation Jump to search

संस्कृतम्[सम्पाद्यताम्]

  • अर्कः, दिनकरः, दिवाकरः, प्रकाशकः, सूर्यः, भास्वत्, रविः, मीहीरः, अंशुमालिन्, तपनः, पतङ्गः, सहस्रकिरणः, उष्णरुचिः, भानुः, रश्र्मिवत्, सवितृः, आदित्यः, क्रान्तिः, मिहिरः, प्रभाकरः, पान्थः, सूनुः, सुरः, अञ्जिष्ठः, अंशुधरः, अंशुपतिः, अंशुभर्तृः, अंशुवाणः, अंशुहस्तः, अगिरः, अगः, अद्रिः, अतुषारकरः, अतुहिनरश्र्मिः, अतुहिनरुचिः, अञ्जिष्ठुः, अन्नकोष्ठकः, अब्जबान्धवः, अम्बरमणिः, अम्बुजबान्धवः, अम्बुतस्करः, अयुगसप्तिः, अरणिः, अरुः, दिेनेशः, अरुणः, अव्यथिषः, अशिरः, असुरः, अहर्पतिः, अहर्बान्धवः, अहर्मणिः, अहिमकरः, आकाशमणिः, आदितेयः, आशुगः, उदरथिः, उष्णकरः, उष्णरश्र्मिः, उष्णांशुः, कञ्जारः, कञ्जरः, ओषधिगर्भः, कपिशः, कमलबान्धवः, कालाध्यक्षः, किरणः।


नामः[सम्पाद्यताम्]

  • अर्कः नाम सूर्यः, भानुः।

सूर्यः, दिनेशः

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्कः, पुं, (अर्च + कर्म्मणि घञ्, कुत्वम् ।) सूर्य्यः । इन्द्रः । ताम्रं । स्फटिकः । इति मेदिनी ॥ पण्डितः । इति शब्दरत्नावली ॥ ज्येष्ठभ्राता । इति दण्डा- दिनाथः ॥ लक्षणया रविवारः । इति ज्योतिघं ॥ वृक्षविशेषः । आकन्द इति भाषा । तत्पर्य्यायः । क्षीरदलः २ पुच्छी ३ प्रतापः ४ क्षीरकाण्डकः ५ विक्षीरः ६ क्षीरी ७ खर्ज्जुघ्नः ८ शीतपुष्पकः ९ जम्भनः १० क्षीरपर्णी ११ विकीरणः १२ सदापुष्पः १३ सूर्य्याह्वः १४ आस्फोतकः १५ तूल- फलः १६ शुकफलः १७ । इति राजनिर्घण्टः ॥ वसुकः १८ आस्फोतः १९ गणरूपः २० मन्दारः २१ अर्कपर्णः २२ । इत्यमरः ॥ * ॥ अथ श्वेता- र्कपर्य्यायः । अलर्कः १ राजार्कः २ प्रतापसः ३ गणरूपी ४ ॥ * ॥ अथ रक्तार्कपर्य्यायः । विश्वोरः १ सदापुष्पी २ रूपिका ३ आदित्यपुष्पिका ४ दिव्यपुष्पिका ५ अर्कः ६ । इति रत्नमाला ॥ अस्य गुणाः । कटुत्वं । उष्णत्वं । अग्निकारित्वं । वातशोथव्रणार्शःकुष्ठक्रिमिनाशित्वञ्च । इति राज- निर्घण्टः ॥ कफदोषनाशित्वं । तीक्ष्णत्वञ्च । अस्य क्षीरगुणाः । क्रिमिदोषव्रणनाशित्वं । कुष्ठार्श- उदररोगेषु हितकारित्वञ्च । इति राजवल्लभः ॥ तस्य पर्य्यायगुणाः । “श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च । विधानं चतुर्थशतकं । नानारोगनिवारणार्थं पञ्चमशतकं । विस्फोटकनिवारणार्थं षष्ठशतकं । क्षुद्ररोगादेर्निवारणं सप्तमशतकं । कार्म्मणं ना- माष्टमशतकं । गणसंख्या नवमशतकं । धातु- शुद्धिर्दशमशतकं । एतत् सर्व्वं अर्कप्रकाशे रावणमन्दोदरीसंवादे अस्ति बाहुल्यभिया न लिखितं ॥ (“अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः । करञ्जो वस्तमूत्रञ्च लेपनं श्रेष्ठमर्शसां” ॥ इति चक्रपाणिसङ्ग्रहः ॥ * ॥ “अर्कानर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्ने- न्द्रपुष्पीक्षद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणा स्ता पसवृक्षश्चेति” । इति अर्कादिगणः ॥ “अर्कादिको गणो ह्येष कफमेदोविषापहः । क्रिमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः” ॥ इति सुश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=अर्कः&oldid=453084" इत्यस्माद् पुनः प्राप्तिः