सामग्री पर जाएँ

अर्गलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्गलम्, क्ली, स्त्री, (अर्ज + कलच्, कुत्वम् ।) कपाट- बन्धककाष्ठविशेषः । इत्यमरः ॥ हुड्का तसला इत्यादि भाषा । (“ससम्भ्रमेन्द्रद्रुतपातितार्गला निमिलिताक्षीव भियामरावती” । इति काव्यप्रकाशे । “तां सत्यनाम्नीं दृढतोरणार्गलां ग्टहैर्विचित्रैरुपशीभितां शिवां” । इति रामायणे । “अथानपोढार्गलमप्यगारं” । इति रघुः । प्रति- बन्धः । प्रत्यवायः । अन्तरायः । “ईप्सितं तदवज्ञानात् विद्धिसार्गलमात्मनः” । इति रघुवंशे ।) कल्लोले त्रि । इति मेदिनी ॥ देवीमाहात्म्यपाठ- स्यादौ पाव्यस्तोत्रविशेषः ॥ यथा मार्कण्डेय उवाच । “ब्रह्मन् केन प्रकारेण दुर्गामाहात्म्यमुत्तमं । शीघ्रं सिद्ध्यति तत्सर्व्वं कथयस्व महाप्रभो ॥ ब्रह्मोवाच । अर्गलं कीलकञ्चादौ पठित्वा कवचं पठेत् । जपेत् सप्तशतीं पश्चात् क्रम एष शिवोदितः ॥ अर्गलं दुरितं हन्ति कीलकं फलदं तथा । कवचं रक्षते नित्यं चण्डिका त्रितयं दिशेत् ॥ अर्गलं हृदये यस्य स चानर्गलवाक् सदा । कीलकं हृदये यस्य वशकीलितमानसः ॥ कवचं हृदये यस्य स वज्रहृदयः खलु । ब्रह्मणा निर्म्मितं पूर्ब्बं विनिश्चित्यापि चेतसा” ॥ इत्यादि । तदाद्यश्लोको यथा, -- “जय त्वं देवि चामुण्डे जय भूतापहारिणि ! । जय सर्व्वगते देवि ! कालरात्रि नमोऽस्तु ते” ॥ तस्य शेषश्लोको यथा, -- “इदं स्तोत्रं पठित्वा च महास्तोत्रं पठेन्नरः । सप्तशतीं समाराध्य वरमाप्नोति सम्पदं” ॥ इत्यर्गलास्तोत्रं ॥

"https://sa.wiktionary.org/w/index.php?title=अर्गलम्&oldid=113350" इत्यस्माद् प्रतिप्राप्तम्