अर्घः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्घः, पुं, (अर्घ + घञ् ।) मूल्यं । (“कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत्” । “मणिमुक्ताप्रबालानां लौहानां तान्तवस्य च । गन्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम्” ॥ इति मनुः ।) पूजाविधिः । इत्यमरः ॥ अयं शब्दः सामगानां सर्व्वत्राभिलापे सयकारो नपुंसकलिङ्गे- नैव प्रयोज्यः अन्यवेदिनां निर्यकारः पुंलिङ्गेन प्रयोज्यः । इति श्राद्धतत्त्वं ॥ (दूर्व्वाक्षतसर्षप- पुष्पादिविरचितोदेवब्राह्मणादिसम्मानार्थः पूजो- पचारभेदः । “अये वनदेवतेयं फलकुसुमपल्लवा- र्घेण मामुपतिष्ठते” । इति उत्तरचरिते । “स प्रत्यग्रैः कुटजकुसुभैः कल्पितार्घाय तस्मै” । इति मेघटूते । “टूर्व्वासर्षपपुष्पाणां दत्वाघं पूर्णमञ्जलिम्” । इति याज्ञवल्क्यः ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्घः [arghḥ], [अर्घ्-घञ्]
Price, value; कुर्युरर्घं यथापण्यम् Ms. 8.398; Y.2.251; कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः Bh.2.15 reduced in their true value, depreciated; so अनर्घ priceless; महार्घ very costly.
A material of worship, respectful offering or oblation to gods or venerable men, consisting of rice, Dūrvā grass &c. with or without water; दूर्वासर्षपपुष्पाणां दत्त्वार्घं पूर्णमञ्जलिम् Y.1.29; कुटजकुसुमैः कल्पितार्घाय तस्मै Me.4; (the ingredients of this offering are: आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् । यवः सिद्धार्थकश्चैव अष्टाङ्गे$र्घः प्रकीर्तितः ॥-तन्त्रम् cf. also रक्तबिल्वाक्षतैः पुष्पैर्दधिदूर्वाङ्कुशैस्तिलैः । सामान्यः सर्वदेवानामर्घो$यं परिकीर्तितः ॥ -देवीपुराणम् and आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि । रक्तानि करवीराणि तथा रक्तं च चन्दनम् । अष्टाङ्ग एष ह्यर्धो वै भानवे परिकीर्तितः ॥ -काशीखण्डः cf. also अर्घः पूजाविधौ मूल्ये...। Nm. see अर्घ्य below.-Comp. -अपचयः The diminution of price. -अर्ह a. worthy of a respectful offering. -ईश्वरः Śiva. -दानम् presentation of a respectful offering. -बलाबलम् rate of price, proper price, the cheapness or dearness of articles, fall or rise in prices; गन्धानां च रसानां च विद्या- दर्घबलाबलम् Ms.9.329. (cf. अर्घस्य ह्रासं वृद्धिं वा ...। Y.2.249.)-सख्यानम्, -संस्थापनम् fixing the price of commodities, appraising, assizes of goods; कुर्वित चैषां (वणिजां) प्रत्यक्षमर्घ- संस्थापनं नृपः Ms.8.42.
