अर्जुनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्जुनः, पुं, (अर्ज + उनन् ।) पाण्डुराजस्य तृतीय- पुत्रः । स नु इन्द्रात् कुन्तीगर्भे जातः । तत्पर्य्यायः । फाल्गुनः २ जिष्णुः ३ किरीटी ४ श्वेतवाहनः ५ बीभत्सुः ६ विजयः ७ कृष्णः ८ सव्यसाची ९ धनञ्जयः १० । इति विराटपर्ब्ब । पार्थः ११ शक्रनन्दनः १२ गाण्डीवी १३ मध्यमपाण्डवः १४ श्वेतवाजी १५ कपिध्वजः १६ राधाभेदी १७ सुभद्रेशः १८ गुडाकेशः १९ वृहन्नलः २० । इति जटाधरः ॥ ऐन्द्रिः २१ । इति भूरिप्रयोगः ॥ * ॥ स्वनामख्यातवृक्षविशेषः । आजन इति भाषा । तत्पर्य्यायः । नदीसर्जः २ वीरतरुः ३ इन्द्रद्रुः ४ ककुभः ५ । इत्यमरः ॥ शम्बरः ६ पार्थः ७ चित्रयोधीः ८ धनञ्जयः ९ वैरातङ्कः १० किरीटी ११ गाण्डीवी १२ शिवमल्लकः १३ सव्यसाची १४ कर्णारिः १५ करवीरकः १६ कौन्तेयः १७ इन्द्र- सूनुः १८ वीरद्रुः १९ कृष्णसारथिः २० पृथाजः २१ फाल्गुनः २२ धन्वी २३ । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “ककुभोऽर्जुननामाख्यो नदीसर्जश्च कीर्त्तितः । इन्द्रद्रुर्वीरवृक्षश्च वीरश्च धवलः स्मृतः ॥ ककुभः शीतलो भग्नक्षतक्षयविषास्रजित् । मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । क्षतभग्नरक्त- स्तम्भनमूत्रकृच्छ्ररोगे पथ्यत्वं । इति राजवल्लभः ॥ कषायत्वं । उष्णत्वं । व्रणशोधनत्वं । कफपित्तश्रम- तृष्णार्त्तिनाशित्वं । वायुरोगप्रकोपकारित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ (अस्य व्यवहारो यथा, -- “अर्ज्जुनस्य त्वचा सिद्धं क्षीरं दद्याद्धृदामये” ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥) कार्त्तवीर्य्यार्ज्जुनः । माहिष्मती नाम पुरी तस्य राजधान्यासीत्, स खलु भुजवीर्य्येण सप्तद्वीपां धरामजयत् । योगाद् बाहुसहस्रञ्च लब्धवान् । “तस्य बाहुसहस्रन्तु युध्यतः किल भारतः ! । योगात् योगेश्वरस्येव प्रादुर्भवति मायया ॥ तेनेयं पृथिवी सर्व्वा सप्तद्वीपा सपर्ब्बता । ससमुद्रा सनगरा उग्रेण विधिना जिता ॥ तेन सप्तसु द्वोपेषु सप्तयज्ञशतानि वै । प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय” ॥ “योऽज्जुनेनार्ज्जनस्तुल्यो द्विबाहुर्ब्बहुबाहुना” । इति महाभारते ।) मयूरः । मातुरेकसुतः । इति मेदिनी ॥ श्वेतवर्णः । तद्वति त्रि । इत्यमरः ॥
