सामग्री पर जाएँ

अर्ज्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्ज्ज, अर्ज्जने । (भ्वादि -- परं -- सकं सेट् ।) इति कविकल्पद्रुमः ॥ अर्ज्जनमलब्धस्य लाभः । यश- श्चार्ज्जति यः स्थिरमिति हलायुधः । इति दुर्गादासः ॥

अर्ज्ज, क संस्कारे (चुरादि -- उभं -- सकं -- सेट् ।) इति कविकल्पद्रुमः ॥ क अर्ज्जयति किमपि लोकः संस्करोतीत्यर्थः । प्रतियत्ने प्राञ्चः । अर्ज्ज यति धनं परिजनः । इति रमानाथः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्ज्ज¦ संस्कारे चुरा॰ उभ॰ सक॰ सेट्। अर्ज्जयति ते आर्जि-जत् त।
“अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्” स्मृतिः
“परस्वान्यर्जयन्नारीरन्यदीयाः परामृशन्” भट्टिः। अर्ज्जयितुम् अर्ज्जयित्वा।

"https://sa.wiktionary.org/w/index.php?title=अर्ज्ज&oldid=208324" इत्यस्माद् प्रतिप्राप्तम्