सामग्री पर जाएँ

अर्ज्जकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अर्ज्जकः, पुं, (अर्ज्जयति, अर्ज्ज + ण्वुल् ।) श्वेतपर्णासः । वावुइ इति भाषा । तत्पर्य्यायः । श्वेतच्छदः २ गन्धपत्रः ३ पाता ४ कुठेरकः ५ । इति शब्दः- चन्द्रिका ॥ वर्व्वरीभेदः । आजबलाइ इति पश्चिमदेशे ख्यातः । तत्पर्य्यायः । क्षुद्रतुलसी २ क्षुद्रपर्णः ३ मुखार्ज्जकः ४ उग्रगन्धः ५ जम्बीरः ६ कुठेरः ७ कठिञ्जरः ८ । अस्य गुणाः । कटुत्वं । उष्णत्वं । कफवातामयनेत्ररोगनाशित्वं । रुचि- कारित्वं । सुखप्रसवकारकत्वञ्च । इति राजनि- र्घण्टः ॥ सामान्यतुलसी । इति रत्नमाला ॥ (“कफघ्ना लघवो रुक्षाः स्निग्धोष्णाः पित्तवर्द्धनाः । कटुपाकरसाश्चैव सुरसार्ज्जकभूस्तृणाः” ॥ इति सुश्रुतश्च ॥)

अर्ज्जकः, त्रि, (अर्ज्जयति, अर्ज्ज + ण्वुल ।) उपार्ज्जन- कर्त्ता । यथा । “अतएव वशिष्ठेन ज्येष्ठस्यांशद्वय- मभिधायार्ज्जकस्यांशद्वयमभिहितं” । इति दाय- भागः ॥

"https://sa.wiktionary.org/w/index.php?title=अर्ज्जकः&oldid=113376" इत्यस्माद् प्रतिप्राप्तम्