अर्ज्जनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्ज्जनम्, क्ली, (अर्ज + ल्युट् ।) उपार्जनं । स्वत्वहेतु- भूतो व्यापारः । यथा । अर्ज्जनं स्वत्वहेतुभूतो ब्यापारः अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्ध- मिति दायभागः ॥ (“अर्जयितृव्यापारोऽर्जनमिति जीमूतवाहनः” । “स्वामित्वजनकव्यापारत्वम्” इति महेश्वरः । “स्वामित्वहेतुभूतव्यापारत्वम् इति । श्रीकृष्णः । “पितृनिधनकालीनं वा जीवनमेव पुत्रस्यार्ज्जनं भविष्यति” । इति दायभागः । “अर्थानामर्जने दुःखमर्जितानाञ्च रक्षणे” । इति पञ्चतन्त्रे । “द्रव्यार्जनञ्च नाशञ्च मित्रामित्रस्य चार्जनम्” । इति मनुः ।)
